तत्वविवेकप्रकरणम्
नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने | सविलासमहामोहग्राहग्रासैककर्मणे ||१||
तत्पादाम्बुरुहद्वङ्द्वसेवानिमर्लचेतसाम् | सुखबोधाय तत्त्वस्य विवेदो’यं विधीयते ||२||
सब्दस्पर्शादयो वेद्यावैचित्र्याज्जागरे पृथक् | ततो विभक्ता तत्संवितैकरूप्यान्न भिद्यते ||३||
तथा स्वप्ने’त्र वेद्यं तु न स्थिरं जागरे स्थिरम् | तद्बेह्दो’तस्तयोः संविदेकरूपा न भिद्यते ||४||
सुपोत्थितस्य सौष्प्ततमोबोधो भवेत्स्मृतिः | सा चावबुद्धविषया’वबुद्धं तत्तदा तमः ||५||
स बोधो विषयाद्भिन्नो न बोधात्स्वप्नबोधवत् | एवं स्थान त्रये’प्येका संविद्तत्वद्दिनान्तरे ||६||
मासाब्दयुगकल्पेषु गतागम्येष्वनेकधा | नोदेति नास्तमेत्यका संविदेषा स्वयंप्रभा ||७||
इयमात्मा परानन्दः परप्रेमास्पदं यतः | मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ||८||
तत्प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनह् | अतसत्परमं तेन परमानन्दतात्मनः ||९||
इत्थं सच्चित्परानन्द आत्मा युक्त्या तथाविधम् | परं ब्रह्म तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते ||१०||
अभाने न परं प्रेम भाने न विषये स्पृहा | अतो भाने’प्यभाता’सौ परमानन्दतात्मनः||११||
अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत् | भाने’प्यभानं भानस्य प्रतिबन्धेन युज्यते ||१२||
प्रतिबन्धो’स्तिभातीतिव्यवहारार्हवस्तुनि | तं निरस्य विरुद्धस्य तस्योत्पादनमुच्यते ||१३||
तस्य हेतुः समानाभिहारः पुत्रध्वनिश्रुतौ | इहानादिरविद्यैव व्यामोहैकनिबन्धनम् ||१४||
चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता | तमोरजस्सत्वगुणा प्रकृतिर्दिविविधा च सा ||१५||
सत्वशुद्ध्यविशुद्धिभ्यां माया’विद्ये च ते मते | मायाबिम्बो वशीकृत्य तां स्यास्तर्वज्ञ ईश्वरः ||१६||
अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा | सा कारणशरीरं स्यात् प्राज्ञस् तत्रा भिमान वान् ||१७||
तमःप्रधानप्रकृतेस्तद्भोगायेश्र्वराज्ञया | वियत्पवनतेजो’म्बुभुवो भूतानि जज्ञिरे ||१८||
सत्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् | श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते ||१९||
तैरन्तःकरणं सर्वै वृत्ति भेदेन तद् द्विधा | मनो विमर्शरूपं स्याद्बुद्धिः स्यान्निश्चयात्मिका ||२०||
रजोंशैः पञ्चभिस्तेषां क्रमात्कर्मेनिन्द्रयाणि तु | वाक्पाणिपादपायुपस्थअभिधानानि जज्ञिरे ||२१||
तैः सर्वैः सहितैः प्राणो वृत्तिभेदात्स पञ्चधा | प्राणो’पानः समानश्चोदानव्यानौ च ते पुनः ||२२||
बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया | शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ||२३||
प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रपद्यते | हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता ॥२४॥
समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् | तदभावात्ततो’न्ये तु कथ्यन्ते व्यष्टिसंज्ञया ||२५||
तद् भोगाय पुनर्भोग्यभोगायतनजन्मने | पञ्चीकरोति भगवान्प्रयेकं वियदादिकम् ||२६||
द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः| स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्च ते ||२७||
तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद् भवः| हिरण्यगर्भः स्थूले’स्मिन्देहे वैश्वानरो भवेत् ||२८||
तैजसा विश्वतां याता देवतिर्यङ्नरादयः | ते पराग्दर्शिनः प्रत्यक्तत्त्वबोधविवर्जिताः ||२९||
कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते|
नद्यां कीटा इवावर्तादावर्तांतरमाशु ते| व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ||३०||
सत्कर्मपरिपाकात्ते करुणानिधिनोद्धृताः| प्राप्य तीरतरुच्छायां विश्रा यन्ति यथासुखम् ||३१||
उपदेशमवाप्यैवमाचार्यात्तत्त्वदर्शिनः| पञ्चकोशविवेकेन लभन्ते निर्वृतिं पराम् ||३२||
अन्नं प्राणो मनो बुद्धिराननश्चेति पञ्च ते, कोशास्तैरावृतः स्वात्मा विस्मृत्या संसृतिं व्रजेत् ||३३||
स्यात्पञ्चीकृतभूतोत्थो देहः स्थूलो’न्नसंज्ञाकः| लिङ्गे तु राजसै प्राङैः प्राङः कर्मेनिन्द्रियैः सह ||३४||